स्वात्म-स्थितः
सर्व-गतः समस्त-व्यापार-वेदी
विनिवृत्त-संगः|
प्रवृद्व - कलोऽप्यजरो
वरेण्यः
पायादपायात्पुरुषः
पुराणः |1|
परैचिन्त्यं युग-भारमेकः
स्तोतुं वहन्योगिभिरप्यशक्यः|
स्तुत्योऽद्यमेऽसौ वृषभो
न भानोः किमप्रवेशे विशति
प्रदीपः|2|
तत्याज शक्रः
शकनाभिमांन नाहं त्यजामि
स्तवनानुबन्धम्|
स्वल्पेन बोधेन
ततोऽधिकार्थं वातायनेनेव
निरुपयामि|3|
त्वं
विश्र्वद्दश्र्वा
सकलैरद्दश्यो
विद्वानशेषं
निखिलैरवेद्यः|
वक्तुं कियान्कीद्दश
इत्यशक्यः
स्तुतिस्ततोऽशक्तिकथा
तवास्तु|4|
व्यापीडितं बालमिवात्म-दोषैरुल्लाघतां
लोकमवापिपस्त्वम्|
हिताहितान्वेषणमान्द्यभाजः
सर्वस्य जन्तोरसि बाल-वैद्यः|5|
दाता न हर्ता दिवसं
विवस्वानद्यश्र्व
इत्यच्युत दर्शिताशः|
संव्याजमेवं गमयत्यशक्तः
क्षणेन दत्सेऽभिमतं नताय |6|
उपैति भक्त्या सुमुखः
सुखानि त्वयि
स्वभावाद्विमुखश्र्च
दुःखम्|
सदावदात-द्युतिरेकरुपस्तयोस्त्वमादर्श
इवावभासि |7|
अगाधताब्धेः स यतः
पयोधिर्मेरोश्र्च तुंगा
प्रक्रतिः स यत्र|
द्यावाप्रथिव्योः
प्रथुता तथैव व्याप
त्वदीया भुवनान्तराणि|8|
तवानवस्था परमार्थ-तत्त्वं
त्वया न गीतः पुनरागमश्च|
द्दष्टं विहाय
त्वमद्दष्टमैषीर्विरुद्ध-व्रत्तोऽपि
समञ्जसस्त्वम्|9|
स्मरः सुदग्धो भवतैव
तस्मिन्नुद् भूलितात्मा
यदि नाम शम्भुः|
अशेत व्रन्दोपहतोऽपि
विष्णुः किं ग्रह्यते येन
भवानजागः |10|
स नीरजाः
स्यादपरोऽघवान्वा
तद्दोषकीत्यैर्वनते
गुणित्वम्|
स्वतोऽम्बुराशेर्महिमा न
देव स्तोकापवादेन
जलाशयस्य|11|
कर्मस्थितिं जन्तुरनेक-भूमिं
नयत्यमुं सा च परस्परस्य|
त्वंनेतृ-भावंहि
तयोर्भवाब्धौ जिनेन्द्र
नौ-नाविकयोरिवाख्यः|12|
सुखाय दुःखानि
गुणाय दोषान्धर्माय
पापानि समाचरन्ति|
तैलाय वालाः सिकता-समूहं
निपीडयन्ति
स्फुटमत्वदीयाः|13|
विषाप हारं
मणिमौषधानि मन्त्रं
समुद्दिश्य रसायनं च|
भ्राम्यन्त्यहोन त्वमिति
स्मरन्ति पर्याय-नामानि
तवैव तानि|14|
चित्ते न
किञ्चित्कृतवानसि त्वं
देवः कृतश्र्चेतसि येन
सर्वम्|
हस्ते क्रतं तेन
जगद्विचित्र सुखेन
जीवत्यपि चित्तबाह्यः|15|
त्रिकाल-तत्त्वंत्वमवैस्त्रिलोकी-स्वामीति
संख्या-नियतेरमीषाम्|
बोधाधिपत्यंप्रति
नाभविष्यस्तेऽन्येऽपिचेद्
व्याप्स्यदमूनपीदम्|16|
नाकस्य पत्युः परिकर्म
रम्यं नागम्यरुपस्य
तवोपकारि|
तस्यैव हेतुः स्वसुखस्य
भानोरुद्विभ्रतच्छत्रमिवादरेण|17|
क्वोपेक्षकस्त्वं
क्व सुखोपदेशः स
चेत्किमिच्छा-प्रतिकूल-वादः|
क्वासौ क्व वा
सर्वजगत्प्रियत्वं तन्नो
यथातथ्यमवेविचं ते |18|
तुगांत्फलं
यत्तदकिञ्चनाच्च
प्राप्यं सम्रद्धान्न
धनेश्र्वरादेः|
निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि
निर्याति धुनी पयोधेः|19|
त्रैलोक्य-सेवा-नियमाय
दण्डं दध्रे यदिन्द्रो
विनयेन तस्य|
तत्प्रातिहार्यं भवतः
कुतस्त्यं तत्कर्म-योगाद्यदि
वा तवास्तु|20| |