एकीभावं गत
इव मया यः स्वयं कर्म-बन्धो
घोरं दुःखं भव-भव-गतो
दुर्निवारः करोति|
तस्याप्यस्य त्वयि जिन-रवे
भक्तिरुन्मुक्तये चेत्
जेतुं शक्यो भवति न तया
कोऽपरस्तापहेतुः|1|
ज्योतीरुपं
दुरित-निवह-ध्वान्त-विध्वंस-हेतुं
त्वामेबाहुर्जिनवर चिरं
तत्त्व-विद्याभियुक्ताः |
चेतोवासे भवसि च मम स्फार-मुभ्द्रासमान-
स्तस्मिन्नंहः कथमिव तमो
वस्तुतो वस्तुमीष्टे|2|
आनन्दाश्रु-स्नपित-वदनं
गद् गदं चाभिजल्पन्
यच्श्रायेत त्वयि द्दढ-मनाः
स्तोत्र-मन्त्रैर्भवन्तम्|
तस्याभ्यस्तादपि च सुचिरं
देह-वल्मीक-मध्यात्
निष्कास्यन्ते विविध-विषम-व्याधयः
काद्रवेयाः|3|
प्रागेवेह
त्रिदिव-भवनादेष्यता भव्य-पुण्यात्
प्रथ्वी-चक्रं कनकमयतां
देव निन्ये त्वयेदम्|
ध्यान-द्वारं मम रुचिकरं
स्वान्त-गेहं प्रविष्टः
तत्किं चित्रं जिन
वपुरिदं यत्सुवर्णीकरोषि|4|
लोकस्यैकस्त्वमसि
भगवन्निर्निमित्तेन
बन्धु-
स्त्वय्येवासौ सकल-विषया
शक्तिरप्रत्यनीका|
भक्ति-स्फीतां
चिरमधिवसन्मामिकां चित्र-शय्यां
मय्युत्पन्नं कथमिव ततः
क्लेश-यूथं सहेथाः|5|
जन्माटव्यां
कथमपि मया देव दीर्घं
भ्रमित्वा
प्राप्तैवेयं तव नय-कथा
स्फार-पीयूष-वापी|
तस्या मध्ये हिमकर-हिम-व्यूह-शीते
नितान्तं
निर्मग्नं मां न जहति कंथ
दुःख-दावोपतापाः|6|
पाद-न्यासादपि
च पुनतो यात्रया ते
त्रिलोकीं
हेमाभासो भवति सुरभिः
श्रीनिवासश्र्व्र पद्मः|
सर्वागेंण स्पृशति
भगवंस्त्वय्यशेषं मनो मे
श्रेयः किं
तत्स्वयमहरर्यन्न
मामभ्युपैति|7|
पश्यन्तं
त्वद्वचनममृतं भक्ति-पात्र्या
पिबन्तं
कर्मारण्यात्पुरुषमसमानन्द-धाम
प्रविष्टम्|
त्वां दुर्वार-स्मर-मद-हरं
त्वत्प्रसादैक-भूमिं
क्रूराकाराः कथमिव रुजा-कण्टका
निर्लुठन्ति|8|
पाषाणात्मा
तदितरसमः केवलं रत्न-मूर्तिः
मानस्तम्भो भवति च
परस्ताद्दशो रत्न-वर्गः|
द्दष्टि-प्राप्तो हरित स
कथं मान-रोगं नराणां
प्रत्यासत्तिर्यदि न
भवतस्तस्य तच्छक्ति-हेतुः|9|
ह्रद्यः
प्राप्तो मरुदपि
भवन्मूर्ति-शैलोपवाही
सद्यः पुंसां निरवधि-रुजा-धूलिबन्धं
धुनोति|
ध्यानाहूतो ह्रदय-कमलं
यस्य तु त्वं प्रविष्टः
तस्याशक्यः क इह भुवने देव
लोकोपकारः10|
जानासि त्वं
मम भव-भवे यच्च याद्दक्च
दुःखं
जातं यस्य स्मराणमपि मे
शस्त्रवन्निष्पिनष्टि|
त्वं सर्वेशः सकृप इति च
त्वामुपेतोऽस्मि भक्त्या
यत्कर्तव्यं तदिह विषये
देव एव प्रमाणम् |11|
प्रापद्दैवं
तव नुति-पदैर्जीवकेनोपदिष्टैः
पापाचारी मरण-समये
सारमेयोऽपिसौख्यम्|
कः सन्देहो यदुपलभते वासव-श्री-प्रभुत्वं
जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कार-चक्रम|12|
शुद्धे ज्ञाने
शुचिनि चरिते सत्यपि
त्वय्यनीचा
भक्तिर्नो चेदनवधि-सुखावञ्चिका
कुञ्चिकेयम्|
शक्योद्वाटं भवति हि कथं
मुक्ति-कामस्य पुंसो
मुक्ति-द्वारं परिद्दढ-महामोह-मुद्रा-फवाटम्|13|
प्रच्छन्नः
खल्वयमघमयैरन समन्तात्
पन्था मुक्तेः स्थपुटित-पदः
केश-गर्तैरगाधेः|
तत्कस्तेन ब्रजति सुखतो
देव तत्त्वावभासी
यद्यग्रेऽग्रे न भवति
भवभ्द्रारती-रत्न-दीपः|14|
आत्म-ज्योति
र्निधिरनवधिर्द्रष्टुरानन्द-हेतुः
कर्म-क्षोणी-पटल-पिहितोयोऽनवाप्यः
परेषाम्|
हस्ते
कुर्वन्त्यनतिचिरतस्त
भवभ्द्रक्तिभाजः
स्तोत्रैर्बन्ध-प्रक्रति-परुषोद्दाम-धात्री-खनित्रैः|15|
प्रत्युत्पन्ना नय-हिमगिरेरायता
चामृताब्धेः
या देव त्वत्पद-कमलयोः
संगता भक्ति-गंगा|
चेतस्तस्यां मम रुजि-वशादाप्लुतं
क्षालितांहः
कल्माषं यभ्द्रवति किमियं
देव सन्देह-भूमिः|16|
प्रादुर्भूत-स्थिर-पद-सुख
त्वामनुध्यायतो मे
त्वय्येवाहं स इति
मतिरुत्पद्यते
निर्विकल्पा|
मिथ्यैवेयं तदपि तनुते
तृप्तिमभ्रेषरुपां
दोषात्मानोऽप्यभिमत-फलास्त्वत्प्रसादाभ्द्रवन्ति|17|
मिथ्यावादं
मलमपनुदन्सप्तभंगी-तरगैं:
वागम्भोधिर्भुवनमखिलं
देव पर्येति यस्ते|
तस्यावृत्तिं सपदि
विबुधाश्र्चेतसैवाचलेन
व्यातन्वन्तः
सुचिरममृतासेवया
तृन्पुवन्ति|18|
आहार्येभ्यः
स्प्पृहयति परं यः
स्वभावादह्रद्यः
शस्त्र-ग्राही भवति सततं
बैरिणा यश्र्च शक्यः|
सर्वागेंषु त्वमसि
सुभगस्त्वं न शक्यः
परेषां
तत्किं भूषा-वसन-कुसुमैः
किं च शस्त्रैरुदस्त्रैः|19|
इन्द्रः सेवां तव
सुकुरतां किं तया श्लाघनं
ते
तस्यैवेयं भव-लय-करीं
श्लाध्यतामातनोति|
त्वं निस्तारी जनन-जलधेः
सिद्धि-कान्ता-पतिस्त्वं
त्वं लोकानां प्रभुरिति
तव श्लाध्यते
स्तोत्रमित्थम्|20|
वृत्तिर्वाचामपर-सद्दशी
न त्वमन्येन तुल्यः
स्तुत्यद्राराः कथमिव
ततस्त्वय्यमी नः क्रमन्ते|
मैवं भूवंस्तदपि
भगवन्भक्ति-पीयूष-पुष्टाः
ते भव्यानामभिमत-फलाः
पारिजाता भवन्ति|21|
कोषोवेशो न तव न तव
क्वापि देव प्रसादो
व्याप्तं चेतस्तव हि
परमोपेक्षयेवानपेक्षम्|
आज्ञावश्यं तदपि भुवनं
संनिधिर्वैरहारी
क्वैवंभूतं भुवनं-तिलकं
प्राभवं त्वत्परेषु|22|
देव स्तोतुं
त्रिदिव-गणिका-मण्डली-गीत-कीर्तिं
तोतूर्तिं त्वां सकल-विषय-ज्ञान-मूर्तिं
जनो यः|
तस्य क्षेमं न पदमटतो जातु
जोहूर्ति पन्थाः
तत्त्वग्रन्थ-स्मरण-विषये
नैष मोमूर्ति मर्त्य:|23|
चित्ते
कुर्वन्निरवधि-सुख-ज्ञान-द्दग्वीर्य-रुपं
देव त्वां यः समय-नियमादादरेण
स्तवीति|
श्रेयोमार्ग स खलु सुकृती
तावता पूरयित्वा
कल्याणानां भवति विषयः
पञ्चधा पञ्चितानाम्|24|
भक्ति-प्रह्व-महेन्द्र-पूजित-पद
त्वत्कीर्तने न क्षमाः
सूक्ष्म-ज्ञान-द्दशोऽपि
संयमभृतः के हन्त मन्दा
वयम्|
अस्माभिः स्तवन-च्छलेन तु
परस्त्वय्यादरस्तन्यते
स्वात्माधीन-सुखैषिणां स
खलु नः कल्याण-कल्पद्रुमः||
वादिराजमनु शाब्दिक-लोको
वादिराजमनु तार्किक-सिंहः|
वादिराजमनु काव्यकृतस्ते
वादिराजमनु भव्य-सहायः|| |