अद्य मे सफलं
जन्म नेत्रे च सफले मम|
त्वामद्राक्षं यतो देव
हेतुमक्षयसंपदः |1|
अद्य संसार-गंभीर-पारावारः
सुदुस्तरः|
सुतरोऽयं क्षणेनैव
जिनेन्द्र तव दर्शनात्|2|
अद्य मे क्षालितं
गात्रं नेत्रे च विमले
कृते|
स्नातोऽहं धर्म-तीर्थेषु
जिनेन्द्र तव दर्शनात्|3|
अद्य मे सफलं जन्म
प्रशस्तं सर्वमंगलम्|
संसारार्णव-तीर्णोऽहं
जिनेन्द्र तव दर्शनात्|4|
अद्य कर्माष्टक-ज्वालं
विधूतं सकषायकम्|
दुर्गतेर्विनिवृत्तोऽहं
जिनेन्द्र तव दर्शनात्|5|
अद्य सौम्या ग्रहाः सर्वे
शुभाश्र्चैकादश-स्थिताः|
नष्टानि विन्घ-जालानि
जिनेन्द्र तव दर्शनात्|6|
अद्य नष्टो
महाबन्धः कर्मणां
दुःखदायकः|
सुख-संग समापन्नो
जिनेन्द्र तव दर्शनात्|7|
अद्य कर्माष्टकं नष्टं
दुःखोत्पादन-कारकम्|
सुखाम्भोधि-निमग्नोऽहं
जिनेन्द्र तव दर्शनात्|8| |